आमुखम्

‘संस्कृत-संवादः’ पाक्षिकसमाचारपत्रं देहलीतः प्रकाशमानमस्ति। अस्य समाचारपत्रस्य प्रवेशांकस्य विमोचनं 2011तमे वर्षे जुलाईमासस्य प्रथमे दिनांके राष्ट्रियसंस्कृतसंस्थानस्य तत्कालीनैः कुलपतिभिः प्रो-राधावल्लभत्रिपाठीमहोदयैः एवं भारतीयसंस्कृतपत्रकारसंघस्य अध्यक्षैः पद्मश्रीविभूषितैः डॉ-रमाकान्तशुक्लमहोदयैः कृतम्।

 

‘संस्कृत-संवादः’ भारतसर्वकारस्य समाचारपत्रणां पञ्जीयनकार्यालयेन अपि च डी-ए-वी-पी- इत्यनेन कार्यालयेन पञ्जीकृतः। शोधपत्रणां प्रकाशनार्थं ‘संस्कृत-संवादः’ आई-एस-एस-एन- इति मान्यता प्राप्तः वर्तते।

 

‘संस्कृत-संवादः’ इत्यस्य पाक्षिकसमाचारपत्रस्य प्रकाशनाय परामर्शदातृमण्डले पद्मश्रीविभूषितः डॉ-रमाकान्तशुक्लः, डॉ-रविन्द्रनागरः, श्रीबलदेवानन्दसागरः, डॉ-धर्मेन्द्रशास्त्री, आचार्यपंकजश्चादयः सुप्रसिद्धाः संस्कृतविद्वांसः प्रमुखभूमिकायां सन्ति।

 

‘संस्कृत-संवादः’ इत्यस्य पाक्षिकसमाचारपत्रस्य प्रकाशिका सम्पादिका च श्रीमतीमंजुशर्मा, प्राप्तस्नातकोत्तरशिक्षा, पत्रिकाप्रकाशनस्य क्षेत्रे च विविधोपलब्धिभिः सुप्रसिद्धा वर्तते। संस्कृतपत्रकारितायाः कृते 2012तमे वर्षे राष्ट्रियसंस्कृतसंस्थानेन ‘विशिष्टसंस्कृतसेवाव्रतिसम्मानेन’ सम्मानिता।
‘संस्कृत-संवादः’ इत्यस्य पाक्षिकसमाचारपत्रस्य द्वौ उपसम्पादकौ वर्तेते। तत्र प्रथमः उपसम्पादकः(मानितः) डॉ-सन्नीकुमारशर्मा वेदाचार्यः। अनेन श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृतविद्यापीठतः ‘विद्यावरिधिः’ इत्युपाधिः प्राप्ता। द्वितीयः उपसम्पादकः श्रीसंजीवकुमारउपाध्यायः गुरुकुलकांगडीविश्वविद्यालयहरिद्वारतः स्नातकः, अध्यापनेन सममेव शोधकार्यरतो{स्ति।

 

‘संस्कृत-संवादः’ इत्यस्य पाक्षिकसमाचारपत्रस्य प्रबन्धनस्य दायित्वं पत्रकारितायां स्नातकोत्तरशिक्षाप्राप्तः श्रीवेदप्रकाशशर्मा निर्वहति। एतेषां हिन्दीपत्रकारितायां सुदीर्घः अनुभवः अपि ‘हिन्द-प्रहरी- इत्यस्य हिन्दीसाप्ताहिकपत्रस्य सम्पादकाः सन्ति। प्रबन्धनकार्ये एतेषां सुपुत्र्याः नेहाशर्मा (बी-टेक-, एमबीए-) इत्यस्य उल्लेखनीया भूमिका वर्तते।

 

‘संस्कृत-संवादः संस्कृतविश्वविद्यालयैः, संस्कृताकादमिभिः, गुरुकुलैः, संस्कृतसंस्थाभिश्च सम्बद्धः, तेषां सहयोगेन संस्कृतभाषायाः संस्कृतपत्रकारितायाश्च विकासाय प्रयासरतः वर्तते। इति।